भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
वाहुभि-विटपाकारै- र्दिव्याभरणभूषितः।
आविर्भूतमप मध्ये पारिजातमिवापरम् ॥११॥
दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः।
हेतिभिश्चेतनावभि-- रुदीरितजयस्वनम्॥१२॥
मुक्त शेषविरोधेन कुलिशव्रणलक्ष्मणा।
उपस्थितं प्राञ्जलिना विनोतेन गरुत्मता॥१३॥
योगनिद्रान्तविशदेः पावनैरवलोकनैः।
भृग्वादीननुगृह्णन्तं सौखशायनिकानुषीन्॥१४॥
प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम्।
अथैनं तुष्टवुः स्तुत्यमवाङ्मनसगोचरम्॥१५॥
नमो विश्वसृजे पूर्व विश्वं तदनु बिभ्रते।
अथ विश्वस्य संत्रे तुभ्यं त्रेधास्थितात्मने॥१६॥
रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते।
देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः॥१७॥
अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः।
अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम्॥१८॥
हृदयस्थमनासन्नमकामं त्वां तपस्विनम्।
दयालुमनघस्पृष्टं पुराणमजरं विदुः॥१९॥
सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः।
सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक्॥२०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः