लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


स्वासिधारापरिहृतः कामं चक्रस्य तेन मे।
स्थापितो दशमो मूर्धा लव्यांश१ इव रक्षसा॥४१॥

स्रष्टुर्वरातिसगत् तु मया तस्य दुरात्मनः।
अत्यारूढं रिपोः सोढं चन्दनेनेव भोगिनः॥४२॥

धातारं तपसा प्रीतं ययाचे स हि राक्षसः।
दैवात् सर्गादवध्यत्वं मयेष्वास्थापराङ्मुखः॥४३॥

सोऽहं दाशरथिर्भूत्वा२ रणभूमे्र्बलिक्षमम्।
करिष्यामि शरैस्तीक्ष्णैस्तच्छिर:कमलोच्चयम्॥४४॥

अचिराद् यज्वभिर्भागं कल्पितं विधिवत् पुनः।
मायाविभिरनालीढमादास्यध्वे निशाचरैः॥४५॥

वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि।
पुष्पकालोकसंक्षोभं मेघावरणतत्पराः ॥४६॥

मोक्ष्यध्वे स्वर्गवन्दीनां वेणीबन्धानदूषितान्।
शापयन्त्रित-पौलस्त्य-बलात्कार-कचग्रहैः ॥४७॥

रावणावग्रहक्लान्तमिति वागमृतेन सः।
अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे॥४८॥

पुरूहूतप्रभृतयः सुरकार्योद्यते। सुराः।
अंशैरनुययुर्विष्णु पुष्पैर्वायुमिव द्रुमाः ॥४९॥

अथ तस्य विशांपत्युरन्ते काम्यस्य कर्मणः।
पुरुषः प्रबभूवाग्नेर्विस्मयेन सहत्विंजाम्॥५०॥
----------------
१. लभ्याश म.
२. वाल्मीकीयस्य रामायणस्य बालकाण्डं कालिदाससमय आसीदित्येतेन स्थितम्।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai