लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


हेमपात्रगतं दोभ्या॑मादधानः पयश्चरुम्।
अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम् ॥५१॥

प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीन्नृपः।
वृषेव पयसां सारमाविष्कृतमुदन्वता॥५२॥

अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः।
प्रसूति चकमे तस्मिस्त्रैलोक्यप्रभवोऽपि यत्॥५३॥

स तेजो वैष्णवं पत्न्योविभेजे चरुसंज्ञितम्॥
द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम्॥५४॥

अर्चिता तस्य कौसल्या प्रिया केकयवंशजा।
अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः॥५५॥

ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीक्षितः।
चरोरर्धार्धभागाभ्यां तामयोजयतामुभे ॥५६॥

सा हि प्रणयवत्यासीत् सपत्न्योरुभयोरपि।
भ्रमरी वारणस्येव मदनिस्यन्दरेखयोः॥५७॥

ताभिर्गर्भः प्रजाभूत्यै दध्रे देवांशसंभवः।
सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः ॥५८॥

सममापन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः।
अन्तर्गतफलारम्भाः सस्यानामिव संपदः॥५९॥

गुप्तं ददृशुरात्मानं सर्वाः स्वप्नेषु वामनैः।
१जलजासि-गदा-शार्ङ्ग-चक्र-लाञ्छित-मूर्तिभिः॥६०॥
------------------
१. जलजं शङ्खः द्र. र ७।६३

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book