लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ।
सम्यगाराधिता विद्या प्रवोधविनयाविव ॥७१॥

निर्दोषमभवत् सर्वमाविष्कृतगुणं जगत्।
अन्वगादिव हि स्वर्गों गां गतं पुरुषोत्तमम्॥७२॥

तस्योदये चतुर्मुर्तेः पौलस्त्यचकितेश्वराः।
विरजस्केर्नभस्वदभिर्दिश उच्छ्वसिता इव ॥७३॥

कृशानुरपधूमत्वात् प्रसन्नत्वात् प्रभाकरः।
रक्षोविप्रकृतावास्ता-मपविद्धशुचाविव ॥७४॥

दशाननकिरीटेभ्यस्तत्क्षणं। राक्षसश्रियः।
मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः॥७५॥

पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः।
आरम्भं प्रथमं चक्रुर्देवदुन्दुभयो दिवि ॥७६॥

संतानकमयी वृष्टिर्भवने चास्य पेतुषी।
सन्मङ्गलोपचाराणां सैवादिरचनाभवत्॥७७॥

कुमाराः कृतसंस्कारास्ते धात्रीस्तन्यपायिनः।
आनन्देनाग्रजेनेव समं ववृधिरे पितुः ॥७८॥

स्वाभाविक विनीतत्वं तेषां विनयकर्मणा।
मुमूच्र्छ सहजं तेजो हविषेव हविर्भुजाम्॥७९॥

परस्पराविरुद्धास्ते तद् रघोरनघं कुलम्।
अलमुद्योतयामासु–देंवारण्यमिवर्तवः॥८०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book