भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ।
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः॥८१॥
तेषां द्वयोर्द्वयोरैक्यं विभिदे न कदाचन।
यथा वायुविभावस्वोयेंथा चन्द्रसमुद्रयोः॥८२॥
ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च।
मनो जह्र निदाघान्ते श्यामाभ्रा दिवसा इव॥३॥
स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः।
धर्मार्थकाममोक्षाणामवतार इवाङ्गभाक्॥८४॥
गुणैराराधयामासुस्ते गुरु गुरुवत्सलाः।
तमेव चतुरन्तेशं रत्नरिव महार्णवाः॥८५॥
सुरगज इव दन्तैर्भग्नदैत्यासिघारै
नंय इव पणबन्धव्यक्तयोगेरुपायैः।
हरिरिव युगदीपँदर्भिरंगैस्तदीयैः।
पतिरवनिपतीनां तैश्चकाशे चतुर्भिः॥८६॥
॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये भगवदवतारो नाम दशमः सर्गः॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः