भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
विप्रोषितकुमारं तद् राज्यमस्तमितेश्वरम्।
रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ॥११॥
अथानाथाः प्रकृतयो मातृवन्धुनिवासिनम्।
मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः॥१२॥
श्रुत्वा तथाविधं मृत्यु कैकेयीतनयः पितुः।
मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत् पराङ्मुखः॥१३॥
ससैन्यश्चान्वगाद् रामं दर्शितानाश्रमालयैः।
तस्य पश्यन् ससौमित्ररुदश्रुर्वसतिद्रमान्॥१४॥
चित्रकूटवनस्थं च कथितस्वर्ग तिगुरोः।
लक्ष्म्या निमन्त्रयाञ्चक्र तमनुच्छिष्टसंपदा ॥१५॥
स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे।
परिवेत्तारमात्मानं मेने स्वीकरणाद् भुवः॥१६॥
तमशक्यमपाक्रष्टुं निदेशात् स्वगिणः पितुः।
ययाचे पादुके पश्चात् कर्तुं राज्याधिदेवते॥१७॥
स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत् पुरीम्।
नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक्१॥१८॥
दृढ़भक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः।
मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत्॥१९॥
रामोऽपि सह वैदेह्या वने वन्येन वर्तयन्।
चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा॥२०॥
----------------------
१. अभुनक् अरक्षद् रक्षणार्थत्व एव भुजिक्रियायाः परस्मैपदित्वात्॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः