लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


प्रभावस्तम्भितच्छायमाश्रितः स वनस्पतिम्॥
कदाचिदङ्क सीतायाः शिश्ये किञ्चिदिव श्रमात्॥२१॥

ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः।
प्रियःपभोगचिह्नेषु पौरोभाग्यमिवाचरन्॥२२॥

तस्मिन्नास्थदिषीकास्त्रं रामो रामावबोधितः।
आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः ॥२३॥

रामस्वासन्नदेशत्वाद् भरतागमनं पुनः।
आशङ्कयोत्सुक सारङ्गां चित्रकूटस्थलीं जहौ ॥२४॥

प्रययावातिथेयेषु वसन् ऋषिकुलेषु सः।
दक्षिण दिशमृक्षेषु वाषिकेष्विव भास्करः॥२५॥

बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता।
प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी॥२६॥

अनसूयातिसृष्टेन पुण्यगन्धेन काननम्।
सा चकाराङ्गरागेण पुष्पोच्चलितषट्पदम्॥२७॥

सन्ध्याभ्रकपिशस्तस्य विराधो नाम राक्षसः।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिवग्रहः॥२८॥

स जहार तयोर्मध्ये मैथिली लोकशोषणः।
नभोनभस्ययोवृष्टिमवग्रह इवान्तरे॥२९॥

तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम्।
गन्धेनाशुचिना चेति वसुधायां निचख्नतुः॥३०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai