भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
कुमारसंभवं नाम महाकाव्यम्
इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम्।
अथो वयस्यां परिपाश्र्ववतिनीं विवर्तितानञ्जननेत्रर्मक्षत॥५१॥
सखी तदीया तमुवाच वर्णिनं निबोध साधो तव चेत् कुतूहलम्।
यदर्थमम्भोजमिवोष्णवारणं कृतं तपः साधनमेतया वपुः ॥५२॥
इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी।
अरूपहार्य मदनस्य निग्रहात् पिनाकपाणि पतिमाप्तुमिच्छति ॥५३॥
असह्यहुंकारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः।
इमां हृदि व्यायतपातमक्षणोद् विशीर्णमूर्तेरपि पुष्पधन्वनः ॥५४॥
तदाप्रभृत्युन्मदना पितुर्ग हे ललाटिकाचन्दनधूसरालका।
न जातु बाला लभते स्म निवु ति तुषारसंघातशिलातलेष्वपि ॥५५॥
उपात्तवर्णं चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदेरियम्।
अनेकशः किन्नरराजकन्यका वनान्तसंगीतसखीररोदयत्॥५६॥
त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे, सहसा व्यबुध्यत।
क्व नीलकण्ठ व्रजसीत्यलक्ष्यवागसत्यकण्ठापितबाहुबन्धना ॥५७॥
यंदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिमं जनं कथम्।
इति स्वहस्तोल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः॥५८॥
यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधि विचिन्वती।
तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम्॥५९॥
द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टमेष्वपि।
न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः ॥६०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः