लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्नोत्तरमीक्षितामिमाम्।
तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम्॥६१॥

अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया।
अयीदमेवं परिहास इत्युमामपृच्छदव्यजितहर्षलक्षणः॥६२॥

अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्तो स्फटिकाक्षमालिकाम्।
कथञ्चिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत॥६३॥

यथा श्रुतं वेदविदां वर त्वया जनोऽयमुच्चैः पद-लङ्घनोत्सुकः।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥६४॥

अथाह वर्णी विदितो महेश्वरस्तदथिनी त्वं पुनरेव वर्तसे।
अमङ्गलाभ्यासरत विचिन्त्य तं तवानुवृत्ति न च कर्तुमुत्सहे ॥६५॥

अवस्तुनिबन्धपरे कथं नु ते करोऽयमामुक्तविवाहकौतुकः।
करेण शम्भोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ॥६६॥

त्वमेव तावत् परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः।
वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितविन्दुवर्षि च॥६७॥

चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते।
अलक्तकाङ्कानि पदानि पादयोर्विकीर्णकेशासु परेतभूमिषु॥६८॥

अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षःसुलभं तवापि यत्।
स्तनद्वयेऽस्मिन् हरिचन्दनाङ्किते पदं चिताभस्मरजः कैरिष्यति ॥६९॥

इयं च तेऽन्या पुरतो विडम्वना यद्ढया वारणराजहार्यया।
विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजेनः स्मेरमुखो भविष्यति ॥७०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book