लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


एवं वाच्यः स कन्यार्थमिति वो नोपदिश्यते।
भवत्प्रणीतमाचारमामनन्ति हि साधवः॥३१॥

अर्याप्यरुन्धती तत्र व्यापार कर्तुमर्हति।
प्रायेणैवंविध कार्ये पुरन्ध्रीणां ' प्रगल्भता ॥३२॥

तत्प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम्।
महाकोशीप्रपातेऽस्मिन् संगमः पुनरेव नः ॥३३॥

तस्मिन् संयमिनामाचे जाते. परिणयोन्मुखे।
जहुः परिग्रहवीडां प्राजापत्यास्तपस्विनः॥३४॥

ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम्।
भगवानपि संप्राप्तः प्रथमोद्दिष्टमास्पदम्॥३५॥

ते चाकाशमसिश्याममुत्पत्य परमर्षयः।
आसेदुरोषधिप्रस्थं मनसा समरंहसः ॥३६॥

कुमारसंभवम्, अलकामतिवाह्येव वसति वसुसंपदाम्।
स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम्॥३७॥

गङ्गास्रोतः-परिक्षिप्तं वप्रान्तज्वलितौषधि।
बृहन्मणिशिलासालं गुप्तावपि मनोहरम् ॥३८॥

जितसिंहभया नागा यत्राश्वा बिलयोनयः।
यक्षाः किम्पुरुषाः पौरा योषितो वनदेवताः॥३९॥

शिखरासक्तमेघानां व्यज्यन्ते यत्र वेश्मनाम्।
अनुगजितसंदिग्धाः करणैर्मुरजस्वनाः ॥४०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai