लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


सा संभवद्भिः कुसुमैर्हतेव ज्योतिर्भिरुद्यद्भिरिव त्रियामा।
सरिद् विहङ्गैरिव लीयमानैरामुच्यमानाभरणा चकासे ॥२१॥

आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी।
हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥२२॥

अथाङ्गुलिभ्यां हरितालमा माङ्गल्यमादाय मनःशिलां च।
कर्णावसक्तामलदन्तपत्रं माता तदीयं मुखमुन्नमय्य ॥२३॥

उमास्तनोभेदमनु प्रवृद्धो मनोरथो यः प्रथमं बभूव।
तमेव मेना दुहितुः कथंचिद् विवाहदीक्षातिलकं चकार ॥२४॥

बबन्ध चास्नाकुलदृष्टिरस्याः स्थानान्तरे कल्पितसन्निवेशम्।
धात्र्यङ्गुलीभिः प्रतिसार्यमाणमूर्णामयं कौतुक-हस्तसूत्रम् ॥२५॥

क्षीरोदवेलेव सफेनपुजा पर्याप्तचन्द्र व शरत्त्रियामा।
नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ॥२६॥

तामर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ठा प्रणमय्य माता।
अकारयेत् कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम्॥२७॥

अखण्डितं प्रेम लभस्व पत्युरित्युच्यते ताभिरुमा स्म नम्रा।
तया तु तस्यार्द्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिषोऽपि ॥२६॥

इच्छाविभूत्योरनुरूपमद्रिस्तस्याः कृती कृत्यमशेषयित्वा।
सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः ॥२९॥

तावद् भवस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुरूपम्।
प्रसाधनं मातृभिरावृताभिर्व्यस्तं पुरस्तात् पुरशासनस्य ॥३०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai