लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


तमन्वगिन्द्रप्रमुखाश्च देवाः सप्तषपूर्वाः परमर्षयश्च।
गणाश्च गिर्यालयमभ्यगच्छन् प्रशस्तमारम्भमिवोत्तमार्थाः॥७१॥

तत्रेश्वरो विष्टरभाग यथावत् सरत्नमयं मधुमच्च गव्यम्।
नवे दुकूले च नगोपनीतं प्रत्यग्रहीत् सर्वममन्त्रवर्जम्॥७२॥

दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधदक्षैः।
वेलासमीपं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादः॥७३॥

तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्ल चक्षुःकुमुदः कुमार्या।
प्रसन्नचेतःसलिलः शिवोऽभूत् संसृज्यमानः शरदेव लोकः॥७४॥

तयोः समापत्तिषु कातराणि किंचिद् व्यवस्थापितसंहृतानि।
ह्रीयन्त्रण तत्क्षणमन्वभूवन्नन्योन्यलोलानि विलोचनानि॥७५॥

तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिमष्टमूतिः।
उमातनौ गूढतनोः स्मरस्य तच्छङ्निः पूर्वमिव प्ररोहम्॥७६॥

रोमोगमः प्रादुरभूदुमायाः स्विन्नाङगुलिः पुङ्गवकेतुरासीत्।
वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य।७७॥

प्रयुक्तपाणिग्रहणं यदन्यद् वधूवरं पुष्यति कान्तिमग्रयाम्।
सान्निध्ययोगादनयोस्तदानीं कि कथ्यते श्रीरुभयस्य तस्य॥७८॥

प्रदक्षिणप्रक्रमणात् कृशानोरुदचिषस्तन्मिथुनं चकासे।
मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥७९॥

तौ दम्पती त्रिः परिणीय वह्निमन्योन्यसंस्पर्शनिमीलिताक्षौ।
स कारयामास वधू पुरोधास्तस्मिन् समिद्धार्चिषि लाजमोक्षम्॥८०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book