लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः।
व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥११॥

उद्घातः प्रणवो यासां* न्यायै स्त्रिभिरुदीरणम्।
कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम्॥१२॥
* न्यायैरुदात्तानुदात्तस्वरितत्वैः।

त्वामामनन्ति प्रकृति पुरुषार्थप्रवर्तिनीम्।
तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥१३॥

त्वं पितृणामपि पिता देवानामपि देवता।
परतोऽपि परश्चासि विधाता वेधसामपि॥१४॥

त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः।
वेद्यं च वेदिता चासि ध्याता ध्येयं च यत् परम्॥१५॥

इति तेभ्यः स्तुतीः श्रुत्वा यथार्थ हृदयंगमाः।
प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः॥१६॥

पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता।
प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी॥१७॥

स्वागतं स्वानधीकारान् प्रभावैरवलम्ब्य वः।
युगपद् युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः॥१८॥

किमिदं द्युतिमात्मीयां न बिभ्रति यथा पुरा।
हिमक्लिष्टप्रकाशानि ज्योतीषीव मुखानि वः॥१९॥

प्रशमादर्चिषामेत--दनुद्गीर्णसुरायुधम्।
वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते॥२०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai