लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


किंचायमरिदुर्वारः पाणी पाशः प्रचेतसः।
मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः॥२१॥

कुबेरस्य मनःशल्यं शंसतीव पराभवम्।
अपविद्धगदो बाहुर्भग्नशाख इव द्रमः॥२२॥

यमोऽपि विलिखन् भूमि दण्डेनास्तमितत्विषा।
कुरुतेऽस्मि*न्नमोघेऽपि निर्वाणालातलाघवम्॥२३॥
* अस्मिन् दण्डे।

अमी च कथमादित्याः प्रतापक्ष तिशीतलाः।
चित्रन्यस्ता इव गताः प्रकोमालोकनीयताम्॥२४॥

पर्याकूलत्वान्मरुतां वेगभङ्गोऽनुमीयते।
अम्भसामोघसंरोधः प्रतीपगमनादिव॥२५॥

आवर्जित-जटामौलि-विलम्वि-शशिकोटयः।
रुद्राणामपि मूर्धानः क्षतहुंकारशंसिनः॥२६॥

लब्धप्रतिष्ठाः प्रथमं यूयं कि बलवत्तरैः।
अपवादेरिवोत्सर्गाः कृतव्यावृत्तयः परैः॥२७॥

तद व्रत वत्साः किमितः प्रार्थयध्वं समागताः।
मयि सृष्टिहिं लोकानां रक्षा युष्मास्ववस्थिता॥२८॥

ततो मन्दानिलोद्धत-कमलाकर-शोभिना।
गुरु नेत्रसहस्रेण चोदयामास वासवः॥२९॥

स द्विनेत्रं हरेश्चक्षुः सहस्रनयनाधिकम्।
वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम्॥३०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai