लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


प्रससादोदयादम्भः कुम्भयोनेर्महौजसः।
रघोरभिभवाशङ् चुक्षुभे द्विषतां मनः॥२१॥

मदोदग्राः ककुद्यन्तः सरितां कूलमुद्रुजाः।
लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम्॥२२॥

प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः।
असूययेव तन्नागाः सप्तधैव - प्रसुवुः॥२३।

सरितः कुर्वती गाधा: पथश्चाश्यानकर्दमान्।
यात्रायें चोदयामास तं शेक्तेः प्रथमं शरत्॥२४॥

तस्मै सम्यग्धृतो वह्निर्वाजिनीराजनाविधौ।
प्रदक्षिणाचर्याजेन हस्तेनेव जयं ददौ॥२५॥

स गुप्तमूलप्रत्यन्तः शुद्धपाणिरयान्वितः।
षविधं वलमादाय प्रतस्थे दिग्जिगीषया॥२६॥

अवाकिरन वयोवृद्धास्तं लाजैः पौरयोषितः।
पृषतर्मन्दरोद्धृतैः क्षीरोर्मय इवाच्युतम्॥२७॥

स ययौ प्रथमं प्राचीं तुल्यः प्राचीनवहषा।
अहिताननिलोधूतैस्तर्जयन्निव केतुभिः॥२८॥

रजोभिः स्यन्दनोधूतैर्गजैश्च घनसंनिभैः।
भुवस्तलमिव व्योम कुर्वन् व्योमेव भूतलम्॥२९॥

प्रतापोऽग्ने ततः शब्दः परागस्तदनन्तरम्।
ययौ पश्चाद् रथादीति चतु:स्कन्धेव सा चमूः॥३०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai