भारतीय जीवन और दर्शन >> मेघदूतम्-कालिदास विरचित मेघदूतम्-कालिदास विरचितसंसार चन्द्र
|
0 |
श्रीकालिदासकविविरचितं मेघदूतम् मूलमात्रम्
तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी
त्वं चेदच्छस्फटिकविशदं तर्कोस्तिर्यगम्भः।।
संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययाऽसौ
स्यादस्थानोपनतयमुनासङ्गमेवाभिरामा।।५१।।
आसीनानां सुरभितशिलं नाभिगन्धमृगाणां
तस्या एवं प्रभवमचलं प्राप्य गौर तुषारैः।।
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्ग निषण्णः
शोभा शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम्।।५२॥
तं चेद् वायी सरति सरलस्कन्धसंघट्टजन्मा
वाधेतोल्काक्षपितचमरीवालभारो दवाग्निः।।
अर्हस्येनं शमयितुमलं वारिधारासहस्रे
रापन्नातिप्रशमनफलाः सम्पदो ह्यत्तमानाम्।।५३।।
ये संरम्भोत्पतनरभसा: स्वाङ्गभङ्गाय तस्मिन्
मुक्तध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम्।
तान् कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान्।
के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः।।५४।।
तत्र व्यक्तं दृषदि चरणन्यासमधेन्दुमौलेः।।
शश्वत् सिद्धरुपचितबलि भक्तिनम्रः परीयाः।
तस्मिन् दृष्टे करणविगमादूर्वमुद्धूतपापाः।
संकल्पन्ते स्थिरगणपदप्राप्तये
शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः।
संसक्ताभिस्त्रिपुर विजयो गीयते किन्नरीभिः।।५५।।
निलँदी ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात्
सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समग्रः।।५६।।
प्रालयाद्ररुपतटमतिक्रम्य तांस्तान् विशेषान्।
हंसद्वारं भृगुपतियशोवर्म यत् क्रौञ्चरन्ध्रम्।
तेनोदीची दिशमनुसरेस्तिर्यगायामशोभी
श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः।।५७।।
गत्वा चोर्ध्वं दशमुखभुजोच्छवासितप्रस्थसन्धेः
कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः।
शृङ्गोच्छायैः कुमुदविशदैर्यो वितत्य स्थितः खं
राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः।।५८।।
उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे
सद्यःकृत्तद्विरद-दशनच्छेदगौरस्य तस्य।
शोभाभद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री
मंसन्यस्ते सति हलभृतो मेचके वाससीव।।५९।।
हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता।
क्रीडाशैले यदि च विहरेत् पादचारेण गौरी।
भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः
सोपानत्वं कुरु मणितटारोहणायायायी।।६०।।
|