| 
			 भारतीय जीवन और दर्शन >> मेघदूतम्-कालिदास विरचित मेघदूतम्-कालिदास विरचितसंसार चन्द्र
  | 
        
		  
		  
		  
          
			 
			  | 
     ||||||
श्रीकालिदासकविविरचितं मेघदूतम् मूलमात्रम्
 तत्रावश्यं वलयकुलिशोद्घट्टनोद्गीर्णतोयं।
 नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम्। 
 ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्यात्
 क्रीडालोलाः श्रवणपरुषैर्गजितेर्भीषयेस्ता:।।६१।। 
 
 हेमाम्भोजप्रसव सलिलं मानसस्याददानः
 कुर्वन् कामं क्षणमुखपटप्रीति मैरावतस्य। 
 धुन्वन् कल्पद्रुमकिसलयान्यंशुकानीव वात
 ननाचेष्टैर्जलद ! ललितैनिविशेस्तं नगेन्द्रम्।।६२।। 
 
 तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां।
 न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन्। 
 या वः काले वहति सलिलोद्गारमुच्चैविमाना 
 मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥६३।।
 
 ।।इति पूर्वमेघः।।
 
 
 
						
  | 
				|||||

 
		 






			 
