भारतीय जीवन और दर्शन >> मेघदूतम्-कालिदास विरचित मेघदूतम्-कालिदास विरचितसंसार चन्द्र
|
0 |
श्रीकालिदासकविविरचितं मेघदूतम् मूलमात्रम्
ननं तस्याः प्रवलरुदितोच्छुननेत्रं प्रियाया
निःश्वासानामशिशिरतया भिन्नवणधरोष्ठम्।
हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा
दिन्दोर्दैन्यं त्वदनुसरण क्लिष्टकोन्तेबिभर्ति।।२१।।
आलोके ते निपतति पुरा सा बलिव्याकुला वा
मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती।
पृच्छन्ती वा मधुरवचनां सारिकां पजस्थां
कच्चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति।।२२।।
उत्सङ्ग वा मलिनवसने सौम्य ! निक्षिप्य वीणां
मङ्गोत्राङ्क विरचिपदं गेयमुद्गातुकामा।
तन्त्रीमाद्र नयनसलिलैः सारयित्वा कथंचिद्।
भूयो भूयः स्वयमपि कृतां मूर्छन विस्मरन्ती।।२३॥
शेषान् मासान् विरहदिवसस्थापितस्यावधेर्वा
विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः।
मत्सङ्ग वा हृदयनिहितारम्भमास्वादयन्ती।
प्रायेणेते रमणविरहेष्वङ्गनानां विनोदाः।।२४।।
सव्यापारामहनि न तथा पीडयेन्मवियोगः
शङ् रात्रौ गुरुतरशुचं निवनोदां सखीं ते।
मत्सन्देशैः सुखयितुमलं पश्य साध्वी निशीथे।
तामुन्निद्रामवनिशयनां सौधवातायनस्थः।।२५।।
अधिक्षामां विरहशयने सन्निषण्णैकपाश्व।
प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः।
नीता रात्रिः क्षण इव मया सार्धमिच्छारतेय
तामेवोष्णेविरहमतीमश्रुभियपियन्तीम्।।२६।।
पादानिदोरमृतशिशिराजालमार्गप्रविष्टान्।
पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव।
चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं।
साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम्।।२७॥
निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं।
शुद्धस्नानात् परुषमलकं नूनमागण्डलम्बम्।
मत्संभोगः कथमुपनयेत् स्वप्नजोऽपीति निद्रा
माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम्।।२८।।
आद्ये वद्धा विरहदिवसे या शिखा दाम हित्वा
शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम्।
स्पर्शक्लिष्टामयमितनखेनासकृत् सारयन्तीं।
गण्डाभोगात् कठिनविषमामेकवेणीं करेण।।२९।।
सा संन्यस्ताभरणमवला पेशलं धारयन्ती
शय्योत्सङ्गे निहितमसकृद् दुःखदुःखेन गोत्रम्।
त्वामप्यत्रं नवजलमये मोचयिष्यत्यवश्यं
प्रायः सर्वो भवति करुणावृत्तिराद्रान्तरात्मा।।३०।।
|