भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
कुमारसंभवं नाम महाकाव्यम्
धातुताम्राधरः प्राशंर्देवदारुबृहद्भुजः।
प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवानिति ॥५१॥
विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः।
स तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः॥५२॥
तत्र वेत्रासनासीनान् कृतासनपरिग्रहः।
इत्युवाचेश्वरान् वाचे प्राञ्जलिर्भूधरेश्वरः॥५३॥
अपमेघोदयं वर्षमदष्टकुसुमं फलम्।
अतकतोपपन्नं वो दर्शनं प्रतिभाति मे ॥५४॥
मूढं बुद्धमिवात्मानं हैमी भूतमिवायसम्।
भूमेदिवमिवारूढं मन्ये भवदनुग्रहात् ॥५५॥
अद्यप्रभृति भूतानामधिगम्योऽस्मि शुद्धये।
यदध्यासितमर्हभिस्तधि तीर्थं प्रचक्षते॥५६॥
अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः।
मूघ्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः॥५७॥
जङ्गमं प्रेष्यभावे वः स्थावरं चरणाङ्कितम्।
विभक्तानुग्रहं मन्ये द्विरूपमपि मे वपुः॥५८॥
भवत्संभावनोत्थाय परितोषाय मूच्र्छते।
अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे॥५६॥
न केवलं दरीसंस्थं भास्वतां दर्शनेन वः।
अन्तर्गतमपास्तं मे रजसोऽपि परं तमः॥६०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः