लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


तिर्यगूर्वमधस्ताच्च व्यापको महिमा हरेः।
त्रिविक्रमोद्यतस्यासीत् स तु स्वाभाविकस्तव॥७१॥

यज्ञभागभुजां मध्ये पदमातस्थुषा त्वया।
उच्चहिरण्मयं शृङ्गं सुमेरोवितथीकृतम् ॥७२॥

काठिन्यं स्थावरे काये भवता सर्वमपितम्।
इदं तु ते भक्तिनम्र सतामाराधनं वपुः॥७३॥
--------------------------
१. प्रत्युवाच स भूधरम् म० सा०।

तदागमनकार्यं नः शृणु कार्यं तवैव तत्।
श्रेयसामुपदेशात् तु वयमत्रांशभागिनः॥७४॥

अणिमादि--गुणोपेतमस्पृष्ट-पुरुषान्तरम्।
शब्दमीश्वर इत्युच्चैः सार्द्धचन्द्रं विभत यः॥७५॥

कलितान्योन्यसामथ्र्यैः पृथिव्यादिभिरात्मभिः।
येनेदं घ्रियते विश्वं धुर्वैर्यानमिवाध्वनि॥७६॥

योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवतिनम्।
अनावृत्तिभयं यस्य पदमाहुर्मनीषिणः॥७७॥

स ते दुहितरं साक्षात् साक्षी विश्वस्य कर्मणाम्।
वृणुते वरदः शम्भुरस्मसंक्रामितैः पर्दः॥७८॥

तमर्थमिव भारत्या सुतया योक्तुमर्हसि।
अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता ॥७९॥

यावन्त्येतानि भूतानि स्थावराणि चराणि च।
मातरं कल्पयन्त्वेनामीशो हि जगतः पिता॥८०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai