लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्

सप्तमः सर्गः


अथौषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम्।
समेतवन्धुर्हिमवान् सुताया विवाहदीक्षाविधिमन्वतिष्ठत् ॥१॥

वैवाहिकैः कौतुकसंविधानैगृहे गृहे व्यग्रपुरन्ध्रिवर्गम्।
आसीत् पुरं सानुमतोऽनुरागीदन्तःपुरं चैककुलोपमेयम्॥२॥

संतानकाकीर्णमहा१ पथं तच्चीनांशुकैः कल्पितकेतुमालम्।
भासोज्ज्वलत्काञ्चनतोरणानां स्थानान्तरं स्वर्ग इवाबभासे॥३॥

एकैव२ सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव।
आसन्नपाणिग्रहणेति पित्रोरुमा विशेषोच्छ्वसितं बभूव॥४॥

अङ्काद् ययावङ्मुदीरिताशीः सा मण्डनान्मण्डनमन्वभुङ्क्त।
संबन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम ॥५॥

मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु।
तस्याः शरीरे प्रतिकर्म चक्रुर्बन्धुस्त्रियो याः पतिपुत्रवत्यः॥६॥

सा गौरसिद्धार्थनिवेशवभिर्देवप्रवालैः प्रतिभिन्नशोभम्।
निर्नाभि कौशेयमुपात्तबाणमभ्यङ्गनेपथ्यमलञ्चकार॥७॥

बभौ च संपर्कमुपेत्य वाला नवेव३ दीक्षाविधिसायकेन।
करेण भानोबेहुलावसाने संधुक्ष्यमाणेव शशाङ्कलेखा॥८॥

तां लोध्रकल्केन हृताङ्गतैलामाश्यानकालेयकृताङ्गरागाम्।
वासो वसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुखं व्यनेषुः॥६॥

विन्यस्तवैदूर्यशिलातलेऽस्मिन्नाबद्ध मुक्ताफलभक्तिचित्रे।
आर्वाजताष्टापदकुम्भतोयैः सतूर्यमेनां स्नपयांबभूवुः॥१०॥
-------------------------
१. चतुष्पथ-सा.
२. एकेव-सा.
३. नवेन. म., विवाह-सा. अनयो-बेहुलावसानीयत्वसमकोटिकमुपमेयपक्षे किमपि न।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai