लोगों की राय

संस्कृति >> ऋतुसंहार

ऋतुसंहार

मूलचन्द्र पाठक

प्रकाशक : विद्या विहार प्रकाशित वर्ष : 2008
पृष्ठ :160
मुखपृष्ठ : सजिल्द
पुस्तक क्रमांक : 6036
आईएसबीएन :81-88140-89-9

Like this Hindi book 3 पाठकों को प्रिय

369 पाठक हैं

प्रस्तुत है पुस्तक ऋतुसंहार ...


मालाः कदम्बनवकेसरकेतकीभि-
रायोजिताः शिरसि बिभ्रति योषितोऽद्य।
कर्णान्तरेषु ककुभद्रुममञ्जरीभि-
रिच्छानुकूलरचितानवतंसकाँश्च।।२१।।

कालागुरुप्रचुरचन्दनचचिताङ्गयः
पुष्पावतंससुरभीकृतकेशपाशाः।
श्रुत्वा ध्वनि जलमुचां त्वरितं प्रदोषे।
शय्यागृहं गुरुगृहात् प्रविशन्ति नार्यः।।२२।।

कुवलयदलनीलैरुन्नतैस्तोयनम्र
मृदुपवनविधूतैर्मन्दमन्दं चलदुभिः।
अपहृतमिव चेतस्तोयदैः सेन्द्र चापैः
पथिकजनवधूनां तदवियोगाकुलानाम्।।२३।।

मुदित इव कदम्बैर्जातपुष्पैः समन्तात्
पवनचलितशाखैः शाखिभिन त्यतीव।
हसितमिव विधत्ते सूचिभिः केतकीनां
नवसलिलनिषेकच्छिन्नतापो वनान्तः।।२४।।

शिरसि वकुलमालां मालतीभिः समेत
विकसितनवपुष्पैथिकाकुड्मलैश्च।
विकचनवकदम्बे : कर्णपूरं वधूनां।
रचयति जलदोघः कान्तवत् काल एषः।।२५।।

दधति वरकुचाग्ररुन्नतैहरियष्टि
प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः।
नवजलकणसेकादुद्गतां रोमराजीं।
ललितवलिविभङ्गर्मध्यदेशैश्च नार्यः।।२६।।

नवजलकणसङ्गाच्छीततामादधानः
कुसुम भरनतानां लासकः पादपानाम्।
जनितरुचिरगन्धः केतकीनां रजोभिः
परिहरति नभस्वान् प्रोषितानां मनांसि।।२७।।

जलभरनमितानामाश्रयोऽस्माकमुच्चै।
रयमिति जलसेकैस्तोयदास्तोयनम्राः।
अतिशयपरुषाभिष्मवह्नः शिखाभिः
समुपजनिततापं ह्लादयन्तीव विन्ध्यम्।।२८।।

बहुगुणरमणीयः कामिनीचित्तहारी
तरुविटपलतानां बान्धवो निर्विकारः।
जलदसमय एष प्राणिनां प्राणभूतो।
दिशतु तव हितानि प्रायशो वाञ्छितानि।।२९।।

।। इति श्रीकालिदासकविकृतौ ऋतुसंहारे प्रावृड्वर्णनो नाम द्वितीयः सर्गः।।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book