संस्कृति >> ऋतुसंहार ऋतुसंहारमूलचन्द्र पाठक
|
3 पाठकों को प्रिय 369 पाठक हैं |
प्रस्तुत है पुस्तक ऋतुसंहार ...
परभृतकलगीतेह्लादिभिः सद्वचांसि।
स्मितदशनमयूखान् कुन्दपुष्पप्रभाभिः।
कलकिसलयकान्ति पल्लवैविद्रमाने
रुपहसति वसन्तः कामिनीनामिदानीम्।।३१।।
कनककमलकान्तैराननैः पाण्डुगण्डे
रुपरिनिहितहारैश्चन्दनाद्वैः स्तनान्तैः।
मदजनितविलासैदृ ष्टिपातैर्मुनीन्द्रान्।
स्तनभरनतनार्यः कामयन्ति प्रशान्तान्।।३२।।
मधुसुरभिमुखाब्जं लोचने लोध्रताम्र।
नवकुरबकपूर्णः केशपाशो मनोज्ञः।
गुरुतरकुचयुग्मं श्रोणिबिम्ब तथैव
न भवति किमिदानीं योषितां मन्मथाय।।३३।।
आकम्पितानि हृदयानि मनस्विनीनां
वातैः प्रफुल्लसहकारकृताधिवासः।
उत्कूजितैः परभृतस्य मदाकुलस्य
श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः।।३४।।
रम्य: प्रदोषसमयः स्फुटचन्द्रभासः
पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः।
मत्तालियूथविरुतं निशि शीधुपानं
सर्वं रसायनमिदं कुसुमायुधस्य।।३५।।
रक्ताशोकविकल्पिताधरमधुर्मत्तद्विरेफस्वनः।
कुन्दापीडविशुद्धदन्तनिकरः प्रोत्फुल्लपद्माननः।
चूतामोद सुगन्धिमन्दपवनः शृङ्गारदीक्षागुरुः
कल्पान्तं मदनप्रियो दिशतु वः पुष्पागमो मङ्गलम्।।३६॥
मलयपवनविद्धः कोकिलालापरम्यः
सुरभिमधुनिषेकाल्लब्धगन्धप्रबन्धः।
विविधमधुपयूथैर्वेष्ट्यमानाः समन्ताद्।
भवतु तव वसन्त-श्रेष्ठकालः सुखाय।।३७।।
आम्रीमञ्जुलमञ्जरीवरशरः सत् किंशुक यद्धनु
ज्य यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितम्।
मत्तेभो मलयानिलः परभृता यद्वन्दिनो लोकजित्
सोऽयं वो वितरीतरीतु वितनुर्भद्र वसन्तान्वितः ॥३८॥
॥ इति श्रीकालिदासकविविरचिते ऋतुसंहारकाव्ये वसन्तवर्णनो नाम षष्ठः सर्गः।।६।।
|