लोगों की राय

संस्कृति >> ऋतुसंहार

ऋतुसंहार

मूलचन्द्र पाठक

प्रकाशक : विद्या विहार प्रकाशित वर्ष : 2008
पृष्ठ :160
मुखपृष्ठ : सजिल्द
पुस्तक क्रमांक : 6036
आईएसबीएन :81-88140-89-9

Like this Hindi book 3 पाठकों को प्रिय

369 पाठक हैं

प्रस्तुत है पुस्तक ऋतुसंहार ...


मुगाः प्रचण्डातपतापिता भृशं तृषा महत्या परिशुष्कतालवः।
वनान्तरे तोयमिति प्रधाविता निरीक्ष्य भिन्नाञ्जनसन्निभं नभः।।११।।

सविभ्रमैः सस्मितजिह्मवीक्षितैविलासवत्यो मनसि प्रवासिनाम्।
अनङ्गसंदीपनमाशु कुर्वते यथा प्रदोषाः शशिचारुभूषणाः।।१२।।

रवेर्मयूखैरभितापितो भृशं विदह्यमानः पथि तप्तपांसुभिः।
अवाङ्मुखो जिह्मगतिः श्वसन मुहुः फणी मयूरस्य तले निषीदति।।१३।।

तृषा महत्या हतविक्रमोद्यमः श्वसन मुहुर्दूरविदारिताननः।
न हन्त्यदूरेऽपि गजान् मृगेश्वरो विलोलजिह्वश्चलिताग्रकेसरः।।१४।।

विशुष्ककण्ठोद्गतसीकराम्भसो गभस्तिभिर्भानुमतोऽनुतापिताः।
प्रवृद्धतृष्णोपहता जलाथिनो न दन्तिनः केसरिणोऽपि बिभ्यति।।१५।।

हुताग्निकल्पैः सवितुर्गभस्तिभिः कलापिनः क्लान्तशरीरचेतसः।
न भोगिनं घ्नन्ति समीपवतनं कलापचक्रेषु निवेशिताननम्।।१६।।

सभद्रमुस्तं परिशुष्ककर्दमं सरः खननायतपोत्रमण्डलैः।
रवेर्मयूखैरभितापितो भृशं वराहयूथो विशतीव भूतलम्।।१७।।

विवस्वता तीक्ष्णतरांशुमालिना सपङ्कतोयात् सरसोऽभितापितः।
उत्प्लुत्य भेकस्तृषितस्य भोगिनः फणातपत्रस्य तले निषीदति।।१८।।

समुद्घताशेषमृणालजालकं विपन्नमीनं द्रुतभीतसारसम्।
परस्परोत्पीडनसंहतैर्गजैः कृतं सरः सान्द्रविमर्दकर्दमम्।।१९।।

रविप्रभोभिन्नशिरोमणिप्रभो विलोलजिह्वाद्वयलीढमारुतः।
विषाग्निसूर्यातपतापित: फणी न हन्ति मण्डूककुलं तृषाकुलः।।२०।।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book